ૐ Ψ Ψ Ψ Ψ Ψ Ψ Ψ Ψ Ψ ૐ

दुर्गा सप्तशती सिद्ध सम्पुट मन्त्र

दुर्गा सप्तशती सिद्ध सम्पुट मन्त्र

ૐ Ψ Ψ Ψ Ψ Ψ Ψ Ψ Ψ Ψ ૐ

देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या।
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः॥
यस्याः प्रभावमतुलं भगवानन्तो ब्रह्म हरश्च न हि वक्तुमलं बलं च।
सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्श्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम्‌॥